|| श्री वीरभद्राष्टकम् ||

दक्षाध्वरध्वंसविधानदक्षं
दम्भोलितुल्यायतबाहुवृन्दम् ।
फालोज्ज्वलन्नेत्रहुताशनेन
भस्मीकृतारिं भज वीरभद्रम् ॥ १॥

कङ्कालदण्डं कठिनोग्रदंष्ट्रं
कपालमालं(ला)कमनीयहारम् ।
कन्दर्पदर्पापहसर्पहारं
भस्माङ्गलेपं भज वीरभद्रम् ॥ २॥

भूतेशमीशं भुजगाभिरामं
भस्मीकृताशेषपुरप्रतापम् ।
उन्निद्रपद्मायतनेत्रपद्मं
श्रीवीरभद्रं भज वीरभद्रम् ॥ ३॥

कालाञ्जनश्यामलकोमलाङ्गं
कण्ठान्तरस्थापितकालकूटम् ।
भागीरथीचुम्बितमौलिभागं
फालाग्निनेत्रं भज वीरभद्रम् ॥ ४॥

निशाटकोटीपटुसेव्यमानं
नीलाञ्जनाभं निहतारिलोकम् ।
पाटीरवाटं वटमूलवासं
भद्राक्षमालं भज वीरभद्रम् ॥ ५॥

जगत्प्रवीरं जगतामधीशं
बालेन्दुजूटं फणिराजभूषम् ।
सहस्रबाहुं सनकादिवन्द्यं
चक्राभिरामं भज वीरभद्रम् ॥ ६॥

मञ्जीरपुञ्जारवमञ्जुपादं
कुञ्जामराम्भोजमणीन्द्रहारम् । (?)
कञ्जातसञ्जातविराजमानं
विकासिनेत्रं भज वीरभद्रं (?) ॥ ७॥

कालस्य कालं कनकाद्रिचापं
वीरेश्वरं निर्विषयान्तरङ्गम् ।
निरीहमेकं निगमान्तमृग्यं
निर्वाणहेतुं भज वीरभद्रम् ॥ ८॥

भद्राष्टकं (पापहरं) पठेद्यः
प्रभातकाले पितृसूतिकाले ।
सुखी भवेत्सम्पदवान् सुभोगी
सुरूपवान् सुस्थिरषुद्धितस्य (बुद्धियुक्तः) (?) ॥ ९॥

॥ इति श्रीवीरभद्राष्टकं सम्पूर्णम् ॥

Translate »