|| निग्रहाष्टकम् ||
श्रीमदप्पय्यदीक्षितविरचितम् ।
मार्गे सहायं भगवन्तमेव
विश्वस्य विश्वाधिक निर्गतोऽस्मि ।
शास्त्रं प्रमाणं यदि सा विपत्स्या-
त्तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥
कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं
मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी ।
क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता
नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु ॥ २॥
सहस्रं वर्तन्तां पथिपथि परे साहसकृतं
प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम् ।
न लक्षीकुर्वेऽहं नलिनजलिपि प्राप्तमपि तन-
मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः ॥ ३॥
सङ्कल्प्य स्थाणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति
श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्धया वर्धयन्तम् ।
क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिःश्वासलेशाः
शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥ ४॥
क्वचिदवयवे दग्धुं कश्चिद्बलादनुचिन्तयन्
निरसनमितो देशात्कर्तुं महेश्वरमाश्रितान् ।
प्रमथपरिषद्रोशैर्दग्धाऽखिलावयवः स्वयं
निरसनमितो लोकादेव क्षणेन समश्नुताम् ॥ ५॥
कालप्रतीक्षा नहि तस्य कार्या
पुलस्त्यपुत्राऽऽदिवदन्तकारे ।
त्वदाश्रितद्रोहकृतोद्यमानां
सद्यः पतेदेव हि मूर्ध्नि दण्डः ॥ ६॥
कण्ठे रुद्राक्षमालां भसितमतिसितं फालदेशे च पश्यन्
नश्यन्नेव क्रुधं यस्तदपहृतमतिः सत्सु कुर्वीत गुर्वीम् ।
तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात्
क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात् ॥ ७॥
सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत्
सकलमपि पुराणं सागमं चेत्प्रमाणम् ।
यदि भवति महत्वं भस्मरुद्राक्षभाजां
किमिति न मृतिरस्मद्रोहिणः स्यादकाण्डे ॥ ८॥
इति श्रीभारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य
श्रीमदप्पय्यदीक्षितकृतं चक्राङ्कितनिग्रहाष्टकं सम्पूर्णम् ॥
श्रीरस्तु । शुभमस्तु ।
अन्य सम्बंधित पृष्ठ (Page )