|| चण्डीशाष्टकम् ||

आस्माकीनं करालं जवमिह भुवने कः सहेदित्यखर्वा-
हङ्कारोल्लासवल्गल्लहरिशतलुठल्लोलयादोमतल्ली ।
मल्लीमालेव यस्योद्भटविकटजटाकोटरे निष्पतन्ती
दीव्यत्यभ्रस्रवन्ती स मम हृदि सदा भातु चन्द्रार्धचूडः ॥ १॥

व्योम्नीवाम्भोदलेखा हृद इव लहरीधोरणी पूषणीव
श्यामाकान्तांशुलक्ष्मीरुदयमथ लयं याति यत्र त्रिलोकी ।
ज्वालाजिह्वालफालज्वलनकवलितोद्दर्पकन्दर्पवीरो
हीरोवृन्दारकाणां विशदयतुतरां शेमुषीं सोऽष्टमूर्तिः ॥ २॥

उद्यत्सान्द्राम्बुवाहव्यतिकरसुषभासन्निभे कण्ठपीठे
शम्पाराजीव यस्यावनिधरदुहि तुर्दोर्लता जाज्वलीति ।
स त्रैलोक्यैकनाथोऽदितितनयधुनीमुग्धडिण्डीरपिण्ड-
प्रख्यः श्रीकङ्कटीको मम निबिडतमोग्रन्थिभेदाय भूयात् ॥ ३॥

सन्तापस्विन्नचूडामृतकिरणगलत्स्फारपीयूषधारा
भालाग्नौ यस्य दुग्धाहुतिरिव सततं स्पन्दमाना चकास्ति ।
स ब्रह्माण्डप्रकाशावनलयघटनानाटिकासूत्रधारो
गौरीप्राणप्रियो नः प्रथयतु नितरां तानि तानीहितानि ॥ ४॥

श्रीपीयूषादिवस्तुप्रकरविभजनोद्भूतवादैकविज्ञा
देवंमन्या महेछा अहह कति दिवो भारभूता न सन्ति ।
देवस्त्वेकस्त्रिलोकाद्मरविषकवलीकारकेलीविदग्धो
वर्वर्त्यार्तानुकम्पाधृततनुघटनासेचनो रेरिहाणः ॥ ५॥

पुष्पानेहेव बाढं विबुधविटपिषूत्कर्षपुष्पप्रकर्ष
तन्वन्सुप्तोऽपि सद्यो मयपुरदहनं यो व्याधाद्विश्र्वभूत्यै ।
सोऽव्यान्मूर्तोऽप्यमूर्तो यतिरपि सतताहीनभोगोपभोगी
कान्ताश्लिष्टोऽप्यकान्तः शशधरमुकुटालङ्कृतिर्देवदेवः ॥ ६॥

देवानां सार्वभौमो विविधभवभवाज्ञानवाटीकुठारः
श्रेयः श्रीरङ्गशालाखिलनिगमकलाकल्पनोल्लाससीमा ।
सर्वाहोभङ्गबीजं मुनिजनहृदयागाररत्नप्रदीपः
कश्चिद्भू मास्तु भूत्यै स्फुटकुमुदवनीभार्गवीगेयकान्तिः ॥ ७॥

क्रोडक्रीडत्पृदाकूत्कटविकटजटाटोपटङ्कारकेलि-
त्रुट्यन्नक्षत्रचक्रक्रमिकचटचटाकारिवृष्टिप्रकृष्टम् ।
उच्चैर्दोर्दण्डखण्डभ्रमणवलयिताशेभचीत्कारचण्डं
पादप्रक्षेपकम्प्रक्षिति मदनकृषस्ताण्डवं नः पुनातु ॥ ८॥

॥ इति श्रीदुर्गाप्रसादद्विवेदीविरचितं चण्डीशाष्टकं सम्पूर्णम् ॥

Translate »