|| जम्बुनाताष्टकम् ||

। श्री श्रीधरवेङ्कटेशार्येण विरचितम् ।
कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।
जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १॥

श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः ।
अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २॥

कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः ।
श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३॥

शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः ।
करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४॥

गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् ।
दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५॥

कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।
शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥ ६॥

करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये ।
जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥ ७॥

कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम् ।
श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥ ८॥

॥ जम्बुनाथाष्टकं संपूर्णम् ॥

Translate »