|| श्री बाणाष्टकम् ||

श्रीमत्कपर्दितटिनीतटशोभनाय
शीतांशुरेखपरिकल्पितशेखराय ।
नित्याय निर्मलगुणाय निरञ्जनाय
नीहारहारधवलाय नमः शिवाय ॥ १॥

डिण्डीरपिण्डपरिपाण्डुरविग्रहाय
दीव्यज्जटापटलमण्डितमस्तकाय ।
नागेन्द्रकृत्तिवसनाय निरामयाय
नारायणप्रियतमाय नमः शिवाय ॥ २॥

दर्वीकराकलितकुण्डलमध्यमानं (मण्ड्यमान)
गण्डाय चण्डसुरशात्रवदण्डनाय ।
आखण्डलादिसुरमण्डलमध्यमान (वन्द्यमान)
पादाम्बुजाय वरदाय नमः शिवाय ॥ ३॥

कालान्तकाय कमलासनपूजिताय
कल्याणशैलपरिकल्पितकार्मुकाय ।
कन्दर्पदर्पदहनाय कलाधराय
कारुण्यपुण्यनयनाय नमः शिवाय ॥ ४॥

विश्वेश्वराय वृषभोत्तमवाहनाय
विध्वस्तदक्षविहरा(विहिता)ध्वरविभ्रमाय ।
गङ्गाधराय गजदानवमर्दनाय
दोर्दण्डदण्डविभवाय नमः शिवाय ॥ ५॥

सोमानलार्कपरिकल्पितलोचनाय
सोमार्कवह्निमुनिपुङ्गवसेविताय ।
भूतेश्वराय भुवनत्रयनायकाय
भूत्यङ्गरागशुभदाय नमः शिवाय ॥ ६॥

नानाविधागमरहस्यविबोधकाय
स्वीयानुभावपरिकल्पितभावनाय ।
भक्तार भक्तिविवशान्मलनाशनाय
स्वर्गापवर्गसुखदाय नमः शिवाय ॥ ७॥

लोकत्रयाध्व(घ)हरणोत्सुकमानसाय
लोकत्रयार्चितपदाय जगन्मयाय ।
श्रीभट्टबाणकविसूक्तिविराजिताय
कैवल्यदाननिपुणाय नमः शिवाय ॥ ८॥

॥ इति श्रीबाणाष्टकं सम्पूर्णम् ॥

Translate »