|| श्री भैरवपञ्जर कवचम् ||

पार्वत्युवाच –
देव देव महादेव संसार प्रियकारक ।
पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ॥ १॥

श्रीशिव उवाच –
पूर्वम् भस्मासुरत्रासाद् भय विह्वलतां स्वयम् ।
पठनादेव मे प्राणा रक्षितः परमेश्वरि ॥ २॥

सर्वदुष्टविनाशाय सर्वरोगनिवारणम् ।
दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ॥ ३॥

राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् ।
सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ॥ ४॥

अनुष्ठानं कृतं देवि पूजनं च दिने दिने ।
विना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ॥ ६॥

अस्य श्रीबटुकभैरवपञ्जरकवचमन्त्रस्य कालाग्निरुद्रः ऋषिः ।
अनुष्टुप्छन्दः । ॐ बटुकभैरवो देवता ।
ह्रां बीजं ॐ भैरवी वल्लभा शक्तिः ।
ॐ दण्डपाणये नमः कीलकम् ।
मम सकलकामनासिद्ध्यर्धे जपे विनियोगः ॥

ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः ।
प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥

ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे ।
ॐ ह्रूं घटावादी मूतिरुत्तरस्यां दिशिस्तथा ।
ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैरृत्यां च दिगम्बरः ।
ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः ॥

ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः ।
प्रत्यक्षमहमीशान बटुकाय नमो नमः ॥

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् ।
रुद्ररूपस्तु पाताले बटुकाय नमो नमः ॥

ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् ।
आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ॥ १॥

कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः ।
बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ॥ २॥

आपदुद्धारकः पातु ह्यापादतलमस्तकम् ।
हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ॥ ३॥

हसक्षमलवरयुं नैरृत्ये हसक्षमलवरयुं पश्चिमेऽवतु ।
सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिन उत्तरे ॥ ४॥

हंसः सोहं तु ईशाने चाष्टसिद्धिकरः परः ।
शंक्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ॥ ५॥

एवं दशदिशो रक्षेद्बटुकाय नमो नमः ।
इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ॥ ६॥

ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् ।
लक्ष्मीं ऐं श्रीं लं पृथिव्यां च आकारो हं ममावतु ॥ ७॥

स्रौं प्रौं ज्रौं ऊँ यं वायव्यां रं रं रं तेजोरूपिणम् ।
ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ॥ ८॥

टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् ।
पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ॥ ९॥

वं शं षं सं आदिनाथं लं क्षं वै क्षेत्रपालकम् ।
(फलश्रुतिः)
एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ॥ १०॥

दुःखदारिद्रयशमनं रक्षकः सर्वतो दिशः ।
आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ॥ ११॥

सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् ।
एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ॥ १२॥

वज्रपञ्जरनामेदं ये श‍ृण्वन्ति वरानने ।
आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ॥ १३॥

लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता ।
सुशीलाय सुदान्ताय गुरुभक्तिपराय च ॥ १४॥

तस्य शीघ्रं च दातव्यमन्यथा न कदाचन ।
गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ॥ १५॥

यस्मै कस्मै न दातव्यं न दातव्यं कदाचन ।
राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ॥ १६॥

एककालं द्विकालं वा त्रिकालं पठते नरः ।
सर्वपापविनिर्मुक्तो शिवेन सह मोदते ॥ १७॥

॥ इति श्रीभैरवपञ्जरकवचं समाप्तम् ॥

Translate »