|| श्री दुर्गाष्टकम् ||
दुर्गे परेशि शुभदेशि परात्परेशि, वन्द्ये महेशदयिते करूणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥
दिव्ये नुते श्रुतिशतैर्विमले भवेशि, कन्दर्पदाराशतसुन्दरि माधवेशि ।
मेधे गिरीशतनये नियते शिवेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥
रासेश्वरि प्रणततापहरे कुलेशि, धर्मप्रिये भयहरे वरदाग्रगेशि ।
वाग्देवते विधिनुते कमलासनेशि, कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥
पूज्ये महावृषभवाहिनि मंगलेशि, पद्मे दिगम्बरि महेश्वरि काननेशि ।
रम्येधरे सकलदेवनुते गयेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥
श्रद्धे सुराऽसुरनुते सकले जलेशि, गंगे गिरीशदयिते गणनायकेशि ।
दक्षे स्मशाननिलये सुरनायकेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥
तारे कृपार्द्रनयने मधुकैटभेशि, विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।
ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि, कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥
मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि, माहेश्वरि त्रिनयने प्रबले मखेशि ।
तृष्णे तरंगिणि बले गतिदे ध्रुवेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥
विश्वम्भरे सकलदे विदिते जयेशि, विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।
मातः सरोजनयने रसिके स्मरेशि, कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥
दुर्गाष्टकं पठति यः प्रयतः प्रभाते, सर्वार्थदं हरिहरादिनुतां वरेण्यां ।
दुर्गां सुपूज्य महितां विविधोपचारैः, प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥
॥ इति श्री मत्परमहंसपरिव्राजकाचार्य
श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि-
श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्रीमदनन्तानन्द-सरस्वति
विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥
अन्य सम्बंधित पृष्ठ (Page )