|| श्री गिरीशाष्टकम् ||

क्षीराम्भोराशितूणं धृतपरशुधनुःशूलदीव्यत्कृपाणं
गौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् ।
तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारं
वीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १॥

सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मेरुचापं
कृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् ।
श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानं
प्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २॥

कैलासग्रावतुल्योज्ज्वलवृषभकुलाध्यक्षसन्नद्धकेतुं
लोलद्दुग्धप्रवाहार्गलमकुटतटीवेष्टिताहीन्द्रसेतुम् ।
पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुं
पञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३॥

भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजं
रुद्रं मुद्रीकृताघं पशुपतिगमनं वीरभद्रं विनिद्रम् ।
शर्वं सर्वंसहामण्डलमहितरथं सत्पथं निर्विरोधं
नादं वेदाविभेदं वरदमभयदं श्रीगिरीशं भजेऽहम् ॥ ४॥

ज्योतीरूपं दुरापं विलयजलधरोद्दण्डचण्डाट्टहासं
विद्युद्वल्लीमतल्लीरुचिरपटुजटानद्धमुग्धेन्दुखण्डम् ।
प्राग्द्वारे भृङ्गिलासं(लास्य) प्रतिदिशगणकोलाहलापूर्णकर्णं
वर्णप्राकारमध्यस्थितमणिसदनं श्रीगिरीशं भजेऽहम् ॥ ५॥

चिद्विद्यामूलकन्दं रदनरुचिपरिष्कासितारण्यकुन्दं
मृद्वीगोक्षीरपूरामृतरसमधुराम्नायगेयं यजेय ।
विद्वत्पालीसदापूजितपदकमलं निर्मलं निर्विकल्पं
व्यालाकल्पं चिरायुर्मुनिसुतविनुतं श्रीगिरीशं भजेऽहम् ॥ ६॥

षट्त्रिंशत्तत्त्वश‍ृङ्गोत्तरपदविचरत्सूक्ष्मचित्स्थाणुरूपं
सप्ताधोलोकबाह्यान्तरकुहरतमः खण्डनोद्दण्डहासम् ।
सौम्यं गम्यादिगम्यं शरणजनमनोहारिशय्यान्तरस्थं
सम्यक्सौभाग्यरेखाञ्चितपदयुगलं श्रीगिरीशं भजेऽहम् ॥ ७॥

न्यग्रोधक्ष्माजमूले स्फटिकमणिमयस्वच्छपीठाधिवासं
सर्वज्ञं भक्तबन्धुं प्रविमलकरुणासारवद्दुग्धसिन्धुम् ।
प्रत्यक्षादृष्टमूर्तिं दशदिगधिपतिं विश्वकृद्दिव्यमूर्तिं
ज्योतिर्लिङ्गं निरङ्गं निरवधिमपरं श्रीगिरीशं भजेऽहम् ॥ ८॥

गिर्यष्टकमिदं पुण्यं यः पठेत्सततं नरः ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९॥

॥ इति श्रीगिरीशाष्टकं सम्पूर्णम् ॥

Translate »