|| श्री कामाक्षी स्तुति ||

वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां
विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् ।
वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां
वन्दारुस्वस्वर्द्रुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ १॥

चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगा-
ह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता ।
सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा
यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ २॥

दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं सन्ततं
दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता ।
ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिरा
कामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ ३॥

दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलं
वृत्तिं तत्स्वयमादधच्च विमुखं दोषाकराडम्बरे ।
सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितं
नेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सद्धृतम् ॥ ४॥

कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-
कासारे वसतिं सदापि सुमनस्सन्दोहसंराजिते ।
सुज्ञानामृतपूरिते कलुषताहीने च पद्मालये
नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५॥

कामक्षीपदपद्मयुग्मनखराः सम्यक्कलासंयुताः
नित्यं सद्गुणसंश्रिताः कुवलयामोदोद्भवाधायकाः ।
उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः
श्रेष्ठादिन्दुनिरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६॥

कामाक्षीचरणारविन्दयुगलीगुल्फद्वयं रक्षता-
दस्मान् सन्ततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।
तेजःपूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-
प्रोद्यद्ध्वानमिषेण च प्रतिश‍ृणन्नम्रालिरक्षामिव ॥ ७॥

जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-
स्सन्तोषाय ममामितोर्जितयशःसम्पत्तये च स्वयम् ।
साम्योलङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते
हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८॥

कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव
प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।
सम्यग्वृत्तमतीव सुन्दरमिदं सम्पन्निदानं सतां
लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९॥

ऊरू ते भवतां मुदे मम सदा कामाक्षि भो देवते
रम्भाटोपविमर्दनैकनिपुणे नीलोत्पलाभे शुभे ।
शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-
श्रीयुक्ते च नितम्बभारभरणैकाग्रप्रयत्ने सदा ॥ १०॥

कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं
श्रीमद्दर्पणदर्पहारि जघनद्वन्द्रं महत्तावकम ।
यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया
लीलार्थं प्रतिभाति सागरवनग्रावादिकार्धावृता ॥ ११॥

बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः
श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।
गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-
श्लाघ्यौ गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२॥

कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल-
द्रत्नालङ्कृतहाटकाढ्यरशनासम्बद्धघण्टारवा ।
तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा
व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३॥

वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते
सन्तोषं विदधातु सन्ततमसौ पीताम्बराष्टिता ।
तत्रापि स्वकया श्रिया तत इतः प्रद्योतयन्ती दिशः
कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४॥

यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव-
त्तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् ।
दत्वा देवि सुगन्धि सद्गणसदासेव्यं प्रणुद्य श्रमं
सन्तोषाय च बोभवीतु महिते कामाक्षि भो देवते ॥ १५॥

यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः-
प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव ।
जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर-
स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६॥

धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी-
बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वोर्ययोर्दैवते ।
सौवर्णौ कलशाविवाद्य च पयःपूरीकृतौ सत्कृतौ
तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७॥

पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ
सौभाग्याधिकशंसिशास्त्रविहरद्रेखाङ्कितौ शौभनौ ।
स्वर्लोकद्रुमपञ्चकं वितरणे तत्ततृषां तस्य त-
त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८॥

दत्तां देवि करौ तवातिमृदुलौ कामाक्षि सम्पत्करौ
सद्रत्नाञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ ।
नित्यं सम्पदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ
संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९॥

भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ
कामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ ।
भावत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण-
प्रोद्यद्बाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २०॥

स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-
वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।
कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ
लोकाघौघसमस्तनाशनचणावुत्तम्भितावुद्द्युती ॥ २१॥

ग्रीवा कम्बुसमानसंस्थितिरसौ कान्त्येन्द्रनीलोपमा
पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।
नानारत्नविभूषणैः सुरुचिरा सौवर्णकैर्मौत्तिक-
श्रेष्टोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२॥

देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतम् ।
कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे (च्छया) ।
तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं
तत्सौन्दर्यनिधानमग्र्यसुषमं कान्तालकालङ्कृतम् ॥ २३॥

नेत्रे ते करुणाकटाक्षविशिखैः कामादिनित्यद्विषो
बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।
हे कामाक्षि विशालतामुपगते ह्याकर्ण मिष्टावहे
सातत्येन फलार्थिनां निजगतेः सम्फुलकं जायते ॥ २४॥

भ्रूयुग्मं तव देवि चापलतिकाहङ्कारनिर्वापणं
कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।
कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने
दीनानिङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५॥

नानासूनवितानसौरभपरिग्राहैकलोलालयः
किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।
नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-
व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६॥

वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा
श्रीमत्कुन्दसुकुड्मलाग्रदशनश्रेणीप्रभाशोभितम् ।
पुष्यद्बिम्बफलारुणाधरपुटं सद्वीटिकारञ्जितं
सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७॥

सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-
त्ताटङ्काढ्ययुगेन भास्वररुचा सम्भूषितं तावकम् ।
कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं
स्वाभ्याशस्थितगण्डभागफलकं सराजयज्ज्योतिषा ॥ २८॥

शीर्षं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं
सूक्ष्मं तन्मधुपालिनीलकुटिलश्रीकुन्तलालङ्कृतम् ।
सीमन्तं सुविभज्य तत्र विपुलश्रीमन्मणीन्द्रानित
स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९॥

कामाक्षीश्वरि कोटिसूर्यनिनसद्वज्रादिरत्नाञ्चित-
श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।
सम्पत्तिं नितरां ममाम्ब मनुजाप्राप्यामिहानारतं
लोकेऽमुत्र भवाभिधं व तिमिरं लूत्वा सदालिश्रितम् ॥ ३०॥

कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः
श‍ृण्वन्त्यत्र पठन्ति वा स्थिरधियः पण्यामिमामर्थिनः ।
दीर्घायुर्धनधान्यसम्पदममी विन्दन्ति वाणीं यशः
सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१॥

कौण्डिन्यान्वयसम्भूतरामचन्द्रार्यसूरिणा ।
निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२॥

इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ।

Translate »