|| श्री महाकाल सहस्रनाम स्तोत्रम् ||

ॐ श्रीगणेशाय नमः ।

श्रीः ।
ॐ नमश्चण्डिकायै ।
अथ महाकालसहस्रनाम लिख्यतेऽधुना ।
ॐ ईश्वर उवाच –
अधुना देवि वक्ष्यामि सहस्रनाममुत्तमम् ।
महाकालस्य देवेशि स्तोत्रं परमदुर्लभम् ॥ १॥

सारासारतरं देवि पवित्राणां च पावनम् ।
गुह्यानामपि गुप्तं च सर्वश्रेयस्करं परम् ॥ २॥

सारस्वतप्रदं चैव शत्रुनाशकरं परम् ।
सर्वसम्पत्प्रदं चैव महारोगनिबर्हणम् ।
महोत्पातप्रशमनं मूलविद्यामनोहरम् ॥ ३॥

अस्य श्रीमहाकालसहस्रनामस्तोत्रमहामन्त्रस्य दक्षिणाक ऋषिः ।
विराट्छन्दः । श्रीकालीसहितो महाकालो देवता ।
हूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं,
धर्मार्थकाममोक्षार्थे जपे पाठे विनियोगः ।

अथ ध्यानम् ।
श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।
कपालकर्त्तृका वामे शूलं खट्वाङ्गदक्षिणे ॥ १॥

भुजङ्गभूषिताङ्गोऽपि भस्मास्थिमणिमण्डितः ।
ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ २॥

विपरीतरतां तत्र कालिकां हृदयोपरि ।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ॥ ३॥

एवं भक्त्या जपेद्देवि सर्वसिद्धिः प्रजायते ।
इति ध्यानम् ।

ॐ महाकालो भैरवेशो भैरवो भीमविक्रमः ।
श्मशानशायी मांसाशी भस्मोद्धूलितविग्रहः ॥ १॥

कपालधारी मुण्डेशी शूलधारी त्रिलोचनः ।
एकनेत्रो विरूपाक्षो स्वरूपाक्षो जितेन्द्रियः ॥ २॥

विकरालः कालरूपो नागरूपधरो शिवः ।
कालीप्रियो करालाक्षो विश्वरूपश्च शत्रुजित् ॥ ३॥

रुद्रेश्वरो विघ्ननाशो भयनाशः प्रभाकरः ।
त्रिलोकेशो दक्षरूपो शान्तो शान्तजनप्रियः ॥ ४॥

उग्रः कपाली कौमारी शत्रुनाशकरो मृडः ।
शिपिविष्टो विश्वनथो स्वामीशो नीललोहितः ॥ ५॥

गङ्गाधरो ललटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ६॥

मृडो पशुपतिर्देवो महादेवोऽव्ययो हरिः ।
पुष्पदन्तो भिदव्यग्रो दक्षाध्वरहरो हरः ॥ ७॥

भगनेत्रभिदव्यक्षः सहस्राक्षः सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ ८॥

वमदेवो महदेवः महापरिवृढो दृढः ।
विश्वरूपो विरूपाक्षो वागीशस्तुतिमन्थरः ॥ ९॥

दर्शः पिनाकी खट्वाङ्गी चित्रवेशश्चिरन्तनः ।
मनोहरो महत्यागी शिरो बृह्मोङ्ग?धूर्जटिः ॥ १०॥

कालकालः कृत्तिवासाः सुभगो प्राणवात्मनः? ।
नागचूडो सुचक्षुषो दुर्वासाः स्मरशासनः ॥ ११॥

दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ।
त्रिलोचनो ज्वलन्नेत्रो त्रिशिखी च त्रिलोकपात् ॥ १२॥

विशलाक्षो मृगीन्द्रास्यः सुरथः सूर्यतापनः ।
धर्मधाम क्षमाक्षेत्रो भगवान् भगहा तथा ॥ १३॥

उग्रः पशुपतिस्तार्क्ष्यः प्रियभर्ता प्रियम्वदः ।
दाता दयाकरो दक्षः कपर्दी काममर्दनः ॥ १४॥

लोककर्ता भूतपतिः महाकर्मा महोषधिः ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ १५॥

नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ।
सोमपोऽमृतपसौम्यो मोहहारी महाद्युतिः ॥ १६॥

लोककारो वेदकारः सूत्रकारः सनातनः ।
महर्षिः कपिलाचार्यः विश्वदीप्तिर्विलोचनः ॥ १७॥

पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदायकः ।
धात्री दामकरः सर्वः सर्वज्ञः सर्वगोचरः ॥ १८॥

शाखो विशाखो गोशाखःः शिवानेकः क्रतूत्तमः ।
गङ्गोद्भवोदको भव्यः पुष्कलः स्थपतिप्रियः ॥ १९॥

विजितात्मा विधेयात्मा भूतभावनसरथिः ॥ २०॥

भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।
क्षमायुक्तो निर्वृतात्मा धर्मयुक्तः सदाशिवः ॥ २१॥

चतुर्मुखश्चतुर्बाहुः सर्वावासो दुरासदः ।
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥ २२॥

शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ।
भस्मशुद्धिकरो मेरुरोलम्बी? शुद्धविग्रहः ॥ २३॥

हिरण्यरेतास्तरणिर्भस्माङ्गो भस्मरूपधृक् ।
महाहृदो महागर्त्तः सिद्धवृन्दारवन्दितः ॥ २४॥

अमृतेशोऽमृतवपुः दण्डो दमयिता दमः ।
तपस्वी तारको धीमान् प्रधानप्रभवोऽव्ययः ॥ २५॥

राहुः सुर्यः शनिः केतुः विरामो विद्रुमः छविः ।
भक्तिगम्यः परम्ब्रह्म परमात्मा जगत्प्रभुः ॥ २६॥

सर्वकामावलम्बश्च मङ्गल्यो मङ्गलावृतः ।
महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥ २७॥

अहः संवत्सरो व्याप्तिः प्रणामः परमस्तपः ।
संवत्सकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥ २८॥

अजः सर्वेश्वरस्सिद्धो महारेता महाबलः ।
योगयोग्यो महादेवः सर्वादिसिद्धिरग्निदः ॥ २९॥

वसुर्वसुमनास्सत्यः सर्वपापहरो मृडः ।
अमृतश्शाश्वतश्शान्तो वीणाहस्तः प्रतापवान् ॥ ३०॥

कमण्डलुधरो दर्वी वेदाङ्गो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनेत्रः पुरन्दरः ॥ ३१॥

अतीन्द्रियो महामयः सर्वावस्थाश्चतुष्पथः ।
कालयोगी महायोगी महोत्साहो महावलः ॥ ३२॥

महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।
निशाचरः प्रेतचारी भूतपो योगिनीपतिः ॥ ३३॥

दैत्यप्रियो नृत्तचित्तः दैत्यानाशकरो परः ।
दुर्लभो दुर्जयशशत्रुबलजिद्बलवत्सखः ॥ ३४॥

प्रेजश्वरः कलानाथो शेषशायी विलोचनः ।
उन्मत्तनेत्रः कपिलो धूसरो धूम्रलोचनः ॥ ३५॥

रक्तप्रियो रक्तनेत्रः वक्रतुण्डपिता वशी ।
भूतेशो भूतनाथश्च भूतभैरवपालकः ॥ ३६॥

प्रेतालयः प्रेतभूमिपालको रक्षकप्रियः ।
रावस्थो? वा चितास्थो वा चिताधूम्रप्रपालकः ॥ ३७॥

यक्षेशो यक्षराट् गुह्यो यक्षभैरवसेवितः ।
यज्ञकर्ता च यज्ञेशो यज्ञसुन्दरपालकः ॥ ३८॥

देवदत्तस्वरूपात्मा देवानां प्रियकारकः ।
भूतेश्वरो भूतदेहो भूतनाथसुखाश्रयः ॥ ३९॥

आकाशगामी भ्राजिष्णुर्देवो मानुषभक्षकः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शलभो धनुः ॥ ४०॥

अपां निधिरधिष्ठानो विजयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ४१॥

विमोचितासुरगणः विद्येशो विद्युताश्रितः ।
बलरूपो बलोन्माथी विहितं गुहरो? गुहः ॥ ४२॥

करणं कारणं कर्ता सर्वबन्धविमोचितः ।
व्यवसायो व्यवस्थानः स्वानन्दो जगदादृतः ॥ ४३॥

दुर्लभो ललितो विश्वो भावात्माऽऽत्मनि संस्थितः ।
वीरेश्वरो वीरभद्रः वीरासनविधिर्विराट् ॥ ४४॥

वीरचूडामणिर्वेत्ता तीव्रानन्दो नटीश्वरः ।
मज्जाधरः त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥ ४५॥

वालखिल्यो माहश्चर्यो तिग्मांशुर्बलिभित्खगः ।
अभिरामश्शरण्यश्च ब्रह्मण्यश्च सुधामराट् ॥ ४६॥

मघवा कौशिको धीमान्विरामः सर्वशासनः ।
ललाटाक्षः पिङ्गदेहः सर्वसंसारचक्रभृत् ॥ ४७॥

अमोघदण्डमध्यस्थो हिरण्यब्रह्मवर्चसी ।
परमार्थः परपदः शम्भरो व्यग्रको? परः ॥ ४८॥

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो यमः ।
भक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ४९॥

कैलसपतिकावर्णः सविता रविलोचनः ।
सूर्यः तपः शशीनाथो दिननाथः प्रतापवान् ॥ ५०॥

भीषणो भारक्रान्तश्च महोग्रो विश्वरूपधृक् ।
अक्रूरः क्रूररूपश्व कमनीयः कलानिधिः ॥ ५१॥

नित्यं नियतकल्याणः पुण्यश्रवणकीर्त्तनः ।
दुरामेध्यो? विश्वसहो ध्येयो दुस्स्वप्ननाशनः ॥ ५२॥

उत्तारको दुष्कृतहा दुर्विषो विहरोदयः? ।
मतादिभूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ॥ ५३॥

विश्वगोप्ता विश्वकर्ता सुवीरो रुचिराङ्गदः ।
पद्ममेरुः पद्मगर्भः विश्वगर्भो विचक्षणः ॥ ५४॥

परावरज्ञो वीरेशः सुमुखः सुमुखास्वतः? ।
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ५५॥

देवादिदेवो देवेशो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतान्तस्समुद्भवः ॥ ५६॥

ईड्योऽनीशः सुव्यग्रो देवसिंहो दयाकरः ।
नन्दी नन्दीश्वरो नग्नो नम्रो व्रतधरश्शुचिः ॥ ५७॥

लिङ्गाध्यक्षः सुराध्यक्षो युगरूपो युगावहः ।
स्ववशः स्वर्गतास्वर्यः सारस्वतमहास्वतः ॥ ५८॥

सर्वभूतमहाम्भोधः? सर्वभूतमहेश्वरः ।
श्मशाननिलयस्त्वष्टा केतुरप्रतिमाकृतिः ॥ ५९॥

लोकोत्तरः स्फुटालोकस्त्र्यम्बको नगभूषणः ।
अन्धकारसुखद्वेष्टिर्विश्मुको?ऽधर्मपातनः ॥ ६०॥

वीतदोषः त्रयगुणैर्दक्षारिपूतदन्तभिद् ।
धूर्जटिः खण्डपरशुः रागाङ्गो विमृडो नरः ॥ ६१॥

पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
बान्धवो बन्धुकर्मा च स्वबन्धनविमोचकः ॥ ६२॥

स यज्ञारिः स कामारिः महादंष्ट्रः स सायुधः ।
बहु?स्त्वनिन्दितः शर्वः शङ्करश्शम्बरो धरः ॥ ६३॥

अमरेशो महादेवो विश्वरूपः सुरारिहा ।
निवृत्तिश्चाहिर्बुध्न्यश्चेकितानो हरिस्तथा ॥ ६४॥

प्रजैकपार्श्वः कापाली त्रिरङ्कुरं जिताशिषः ।
धन्वन्तरिर्धूम्रकेतुः स्कन्दो वैश्रवणस्तथा ॥ ६५॥

दाता शक्तश्व विष्णुश्च मित्रस्त्वष्टा ध्रुवो वसुः ।
प्रभोग्रः? सर्वगो वयुरनामसहितो रविः ॥ ६६॥

उदयश्च विधाता च मान्धाता भूतभावनः ।
अतितीक्ष्णश्च वागीशः सर्वकामगुणावहः ॥ ६७॥

पद्मवक्त्रो महाचक्त्रः चन्द्रवक्त्रो मनोरमः ।
वलवान् चैव शान्तश्च पुराणः पुण्यचञ्चुरी ॥ ६८॥

कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ।
सर्वेशानो दर्भशायी सर्वेषां प्राणिनां पतिः ॥ ६९॥

देवदेवमुखासक्तः सदसत्सर्वरत्नजित् ।
कैलासशिखरारूठः हिमवद्गिरिसंश्रयः ॥ ७०॥

कुलाहरी? कुलोकर्ता? बहुबीजो बहुप्रदः ।
वाणिज्यवर्धनो वृद्धो नकुलश्च दरच्छदः ॥ ७१॥

सारग्रीवो महाराजरलोलश्च? महौषधः ।
सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणस्तथा ॥ ७२॥

सिंहनादः सिंहदंष्ट्रः सिंहगस्सिंहवाहनः ।
प्रभावात्मा जगत्कर्ता ताली लोकहितस्तरुः ॥ ७३॥

सारङ्गो नच?वक्त्राङ्गः केतुमली स्वभावनः ।
भूताशयो भूतपतिरहोरात्रिर्मुनिन्दितः? ॥ ७४॥

वासवस्सर्वभूतानां निलयश्च विभुर्भुवः ।
अमोघो सङ्गतो ज्याश्वो? योजना प्राणधारणः ॥ ७५॥

धृतिमान् धर्मधृक्दक्षः संस्कृतश्च युगाधिपः ।
गोपालो गोयुधि ग्राह्यो गोचर्मवसनो हरः ॥ ७६॥

हिरण्यबाहुश्च तथा गुरुपालप्रवेशितः ।
प्रतिष्ठा यो? महाहर्षो जितकामो जितेन्द्रियः ॥ ७७॥

गान्धारश्च सुरालश्च? तपःकर्मरतिर्वरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ७८॥

महाकेतुर्धनुर्धाता नैकतालश्चराचरः ।
अवेदनीय आवेशः सर्वगन्धस्सुखावहः ॥ ७९॥

तोरणो स्थूरणो वायुः परिधावति? चैकतः ।
संयोगो वर्द्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८०॥

वसुरावर्द्धनो वृद्धो नित्यश्रेष्ठो महापथः ।
शिरोहारी विमर्शी च सर्वलक्षणलक्षितः ॥ ८१॥

अक्षरा चाक्षरो योगी सर्वयोगी महाबलः ।
समाप्राया समाप्राय?तीर्थदेवो महाद्युतिः ॥ ८२॥

निर्जीवो जीवनो मन्दो निन्दो? वटुककर्कशः ।
रत्नप्रभूतो रत्नाङ्गो महार्णवनिनादभृत् ॥ ८३॥

मूलो विशाखो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ।
आरोहणो निरोहश्च शैलहारी महातपाः ॥ ८४॥

मीनकल्पो महाकल्पो युगायुगहरो हरिः ।
युगरूपो महारूपः पवनो गहनो नगः ॥ ८५॥

न्यायनिर्वापणो पादपरितो? ह्यचलोपमः ।
बहुमालो महामलः सुमालो बहुलोचनः ॥ ८६॥

विस्तारो लवणसरः कुसुमो सफलोदयः ।
वृषभः वृषभो वाङ्गो मणिजिह्वो जटाधरः ॥ ८७॥

दण्डो विसर्गस्सुमुखः सदासर्वायुधासहः ।
निवेशनः सुधन्वा च युगाधारो महाहनुः ॥ ८८॥

गन्धमाली च भगवानुत्पातस्सर्वकर्मणाम् ।
मन्थानो बहुलो बाहुः सकलस्सर्वलोचनः ॥ ८९॥

नरस्ताली करस्ताली दुष्टसंहननो महान् ।
छन्नपत्रस्सुविख्यातः सर्वलोकाश्रयो भवान् ॥ ९०॥

मुण्डो विरूपबहुलो चण्डमुण्डो विकर्षणः ।
हर्यक्षः ककुभो यत्नो दीप्तजिह्वा सहस्रपात् ॥ ९१॥

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ।
सहस्रबाहुः सूर्याग्रः स्वाराण्यां? सर्वलोककृत् ॥ ९२॥

त्रिपत्रस्त्रिमधुर्मन्त्रः कनिष्ठा कृष्णपिङ्गलः ।
ब्रह्मदण्डविनिर्घाता शतघ्नी शतपाशभृत् ॥ ९३॥

पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः ।
गभस्ती ब्रह्मकृद्ब्रह्मा ब्रह्मकृद्ग्राहिणो गतिः ॥ ९४॥

ऊर्द्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
अनन्तरूपो नैकात्मा तिग्मतेजाऽऽत्मसम्भवः ॥ ९५॥

पद्मजो पद्ममालाग्र्य त्वगन्योऽन्तरगोऽन्तगः ।
कर्णिकारमहास्त्रग्वी नीलनौमि? पिनाकधृक् ॥ ९६॥

सर्वपार्श्वमुखस्तार्क्ष्यो धर्मसाधारणो धरः ।
चराचरात्मा सूर्यात्मा स्ववृषो गोवृषेश्वरः ॥ ९७॥

साध्यो क्षोव?सुराध्यक्षो विवस्वान् सविता सृतः ।
न्यायसर्वस्य सम्क्षेपो विस्तारपरमोदयः ॥ ९८॥

कालीपतिरुमाकान्तो जाह्नवी त्रिदशां वरः ।
वरो वराहो वरदो वनेशश्च महास्वनः ॥ ९९॥

महाप्रसादस्त्वनघश्शत्रुहा श्वेतपिङ्गलः ।
प्रीतात्मा च प्रियतात्मा? संयतात्मा प्रधानधृक् ॥ १००॥

ऋतुस्संवत्सरो मासः पक्षस्संस्था ससायकः? ।
कलाकाष्ठा लवा मात्रा मुहूर्त्ता रक्षपक्षणः? ॥ १०१॥

विश्वक्षेत्रं प्रभा बीजलिङ्गमाद्यस्त्वनिर्मिताः? ।
सदसद्व्यक्तमव्यक्त्रं पिता माता पितामहः ॥ १०२॥

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।
निर्वाणं ह्लादनं चैव ब्रह्मलोकपरागतिः ॥ १०३॥

देवासुरविनिर्माता देवासुरपरयणः ।
देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ १०४॥

देवासुरमहामात्रो देवासुरमहाश्रयः ।
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥ १०५॥

देवादिदेवो देवार्षेर्देवासुरसुपूजितः ।
देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १०६॥

सर्वदेवमयोऽचिन्त्यो दैवतश्चात्मसम्भवः ।
उद्भवो विक्रमो वैद्यो विरजो विरजां वरः ॥ १०७॥

दग्रो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ।
विबुधाग्रचरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ १०८॥

गुरुः कान्तोऽजितस्सर्गः पवित्रस्सर्ववाहनः ।
प्रयुक्तश्शोभनो वक्त्रो देवेशः प्रभुरव्ययः ॥ १०९॥

श‍ृङ्गो श‍ृङ्गप्रदो बभ्रुः राजराजो निरामयः ।
अविरामः सुरगणो विरामस्सर्वसाधनः ॥ ११०॥

ललाटाक्षो विश्वदेहो हरणी ब्रह्मवर्चसी ।
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥ १११॥

सिद्धार्थस्सर्वभूतार्थो नित्यस्सत्यव्रतश्शुचिः ।
व्रतादिपरमं ब्रह्म मुक्तानां परमागतिः ॥ ११२॥

विमुक्तो दीप्ततेजाश्च श्रीमान् श्रीवर्धनोऽग्रजः ।
श्मशानकालो देवेशो भूतेशः प्रमथाधिपः ॥ ११३॥

भद्ररूपः कालदेवो भूतसंहारकारकः ।
कालीनाथो भूतनाथः शर्वः पशुपतिर्मृडः ॥ ११४॥

भद्रनाथश्च कालीनस्सर्वभक्षकभक्षकः ।
सृष्टिस्थितिस्थरूपश्च भूतभृद्भूतभावनः ॥ ११५॥

माम्साशनो बहुरूपः क्रूररूपः कपालभृत् ।
सर्वेश्वरः सर्वरुद्रः कालीकमलमध्यगः ॥ ११६॥

द्रीं द्रीं हूं हूं कलरूपः चिन्तामण्डलमध्यगः ।
क्रीं क्रीं हूं हूं मुण्डधारी मुण्डमालाधरश्शिवः ॥ ११७॥

इति नाम्नां सहस्रं ते महाकालस्य भाषितम् ।
सर्वरोगहरं देवि परमैश्वर्यकारणम् ॥ ११८॥

सर्वागमरहस्योऽयं स्तोत्रं परमदुर्लभम् ।
सर्वसिद्धिप्रदं साक्षात्सिद्धिदं पापनाशनम् ॥ ११९॥

महाभयहरं देवि भोगमोक्षैककारणम् ।
समस्तशोकशमनं सर्वविद्याप्रदं शिवे ॥ १२०॥

महापातककोटिघ्नं कलौ सिद्धिप्रदं शिवे ।
इदं नामसहस्रं तु ब्रह्मलोकेषु दुर्लभम् ॥ १२१॥

तव प्रीत्या मयाऽऽख्यातं गोपनीयं स्वयोनिवत् ।
तव नाम्नि श्रुते देवि सर्वयज्ञफलं लभेत् ।
सर्वपापक्षयकरं वाञ्छितं चैव सिध्यति ॥ १२२॥

नश्यन्ति पठनादस्य स्तोत्रमन्त्रस्य भावतः ।
यं यं करोति सततं तं तं प्राप्नोति नित्यशः ॥ १२३॥

इदं नामसहस्रं तु भक्तिश्रद्धासमन्वितः ।
शनिवरे श्मशाने तु पूजां कुर्यान्नरोत्तमः ॥ १२४॥

ततो दशांशतो कुर्यात्सुरातर्पणमेव च ।
पायसेनाज्यहोमेन नखकेशेन पार्वति ॥ १२५॥

न देयमन्यशिष्याय शठाय दुर्जनाय च ।
देयं शिष्याय शान्ताय कुलीनाय सुपुत्रिणे ॥ १२६॥

भक्तियुक्ताय देवेशगुरुभक्तिपराय च ।
विना दानं न गृह्लीयान्न दया दक्षिणां विना ॥ १२७॥

दत्वा गृहीत्वा तूभयोः सिद्धिहानिर्भवेद्ध्रुवम् ।
इदं नामसहस्रं तु परं परमकारणम् ॥ १२८॥

रहस्यानां रहस्यं च पवित्राणां पवित्रकम् ।
गोप्यं गुह्यतमं गोप्यं गोपनीयं मुमुक्षुभिः ॥ १२९॥

इति श्रीविश्वसारे कालीसर्वस्वे महाकलसहस्रनाम स्तोत्रं सम्पूर्णम् ॥

शुभमस्तु

Translate »