॥ श्री नृसिंह कवचम् ॥
नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ १॥
सर्व सम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ २॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ ३॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ ४॥
तप्तकाञ्चनसंकाशं पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ ५॥
विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात् स्तूयमानं मुदान्वितम् ॥ ६॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु लोकरक्षार्थसम्भवः ॥७॥
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ ८॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ ९॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं सदा प्रह्लादवन्दितः ॥ १०॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ ११॥
करौ मे देववरदो नृसिंहः पातु सर्वतः । var
पातु सर्वदा हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ १२॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥ १४॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ १६॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ १७॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ १८॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।
ईशान्ये संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥ १९॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २०॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ २१॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ २२॥
वृश्चिकोरगसम्भूत विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ २३॥
भूर्जे वा तालपात्रे वा कवचं लिखितं शुभम् ।
करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ २४॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ २५॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् ॥ २६॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ २७॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ २८॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ २९॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ ३०॥
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
॥ इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्रीनृसिंहकवचं सम्पूर्णम् ॥
अन्य सम्बंधित पृष्ठ (Page )