|| श्रीपञ्चनदीशाष्टकम् ||

 

महादेव भवाकार नीलकण्ठ त्रिलोचन ।
शिवशङ्कर सर्वात्मन् पाहि पञ्चनदीपते ॥ १॥

त्रिपुरान्तक सर्वेश चन्द्रशेखर धूर्जटे ।
वामदेव क्रतुध्वंशिन् रक्ष पञ्चनदीपते ॥ २॥

देवदेव जगन्नाथ पार्वती रमणप्रभो ।
भूतेश सर्व कौमारे पाहि पञ्चनदीपते ॥ ३॥

शम्भो पशुपते स्थाणो गङ्गाधर मृढाव्यय ।
नागाभरण विश्वेश पाहि पञ्चनदीपते ॥ ४॥

पिनाकपाणे श्रीकण्ठ कपाल धृतशेखर ।
अघोरसद्योजातत्वं पाहि पञ्चनदीपते ॥ ५॥

शूलिन् कपर्दिन् गिरीश भवोद्भव मनोन्मम ।
अस्तिभूष दयासिन्धो पाहि पञ्चनदीपते ॥ ६॥

व्योमकेश त्रयीनाक वेदान्ताम्बुज भास्कर ।
स्वयम्प्रकाश चिद्रूप पाहि पञ्चनदीपते ॥ ७॥

सर्पराजोर्ध्व सम्बद्ध जटामण्डलमण्डित ।
पिनाकमृग दृग्देव पाहि पञ्चनदीपते ॥ ८॥

ममाष्टकमिदं स्तोत्रं प्रतियाम विशेषतः
पठते वाञ्छितं सर्वं प्रयच्छामि द्विजोत्तम ॥ ९॥

पञ्चापकेश जप्ये च प्रणतार्ति हरेति च ।
जपेत् नामत्रयं नित्यं पुनर्जन्म न विद्यते ॥ १०॥

रक्ष पञ्चनदीनाथ दयासिन्धो महेश्वर ।
अनाथनाथ भक्तानामभयप्रद शङ्कर ॥ ११॥

इति श्रीपञ्चनदीशाष्टकं सम्पूर्णम् ।

Translate »