|| श्री राधा कृष्ण स्तोत्रम् ||

वन्दे नवघनश्यामं पीतकौशेयवाससम् ।

 

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥

 

राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।

 

राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥

 

राधानुगं राधिकेष्टं राधापहृतमानसम् ।

 

राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥

 

राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् ।

 

राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥

 

ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् ।

 

तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥

 

निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।

 

नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ६ ॥

 

यः सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।

 

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥

 

बीजं नानावताराणां सर्वकारणकारणम् ।

 

वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥

 

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।

 

गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ।

 

इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥

 

हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् ।

 

पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥

 
Translate »