|| श्री शिव सहस्रनाम स्तोत्रम् देवीभागवतान्तर्गतम् ||
भगीरथकृतं श्रीमहादेवीभागवत उपपुराणे
भगीरथ उवाच-
ॐ नमस्ते पार्वतीनाथ देवदेव परात्पर ।
अच्युतानघ पञ्चास्य भीमास्य रुचिरानन ॥ १॥
व्याघ्राजिनधरानन्त पारावारविवर्जित ।
पञ्चानन महासत्त्व महाज्ञानमय प्रभो ॥ २॥
अजितामितदुर्धर्ष विश्वेश परमेश्वर ।
विश्वात्मन्विश्वभूतेश विश्वाश्रय जगत्पते ॥ ३॥
विश्वोपकारिन्विश्वैकधाम विश्वाश्रयाश्रय ।
विश्वाधार सदानन्द विश्वानन्द नमोऽस्तु ते ॥ ४॥
शर्व सर्वविदज्ञानविवर्जित सुरोत्तम ।
सुरवन्द्य सुरस्तुत्य सुरराज सुरोत्तम ॥ ५॥
सुरपूज्य सुरध्येय सुरेश्वर सुरान्तक ।
सुरारिमर्दक सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ ६॥
त्वं शुद्धः शुद्धबोधश्च शुद्धात्मा जगतां पतिः ।
शम्भुः स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ ७॥
उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान् ।
उग्रकण्ठः शिवः शान्तः सर्वशान्तिविधायकः ॥ ८॥
सर्वार्थदः शिवाधारः शिवायनिरमित्रजित् ।
शिवदः शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ ९॥
शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः ।
गङ्गाधरकपर्दी च जटाजूटविराजितः ॥ १०॥
जटिलो जटिलाराध्यः सर्वदोन्मत्तमानसः ।
उन्मत्तकेश उन्मत्त उन्मत्तानामधीश्वरः ॥ ११॥
उन्मत्तलोचनो भीमस्त्रिनेत्रो भीमलोचनः ।
बहुनेत्रो द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ १२॥
दीर्घनेत्रस्च पिङ्गाक्षः सुप्रभाख्यः सुलोचनः ।
सोमनेत्रोऽग्निनेत्राख्यः सूर्यनेत्रः सुवीर्यवान् ॥ १३॥
पद्माक्षः कमलाक्षश्च नीलोत्पलदलेक्षणः ।
सुलक्षणः शूलपाणिः कपाली कपिलेक्षणः ॥ १४॥
व्याघूर्णनयनो धूर्तो व्याघ्रचर्माम्बरावृतः ।
श्रीकण्ठो नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ १५॥
चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः शशाङ्कभृत् ।
शशिकान्तः शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ १६॥
शशाङ्कवदनो वीरो वरदो वरलोचनः ।
शरच्चन्द्रसमाभासः शरदिन्दुसमप्रभः ॥ १७॥
कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः ।
अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः ॥ १८॥
भयदाता भयत्राता भयहर्ता भयोज्झितः ।
निर्भूतो भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ १९॥
कौपीनवासा दुर्वासा विवासाः कामिनीपतिः ।
करालः कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ २०॥
कीर्तिरूपः कुन्तधारी कालकूटकृताशनः ।
कालकूटः सुरूपी च कुलमन्त्रप्रदीपकः ॥ २१॥
कलाकाष्ठात्मकः काशीविहारी कुटिलाननः ।
महाकाननसंवासी कालीप्रतिविवर्धनः ॥ २२॥
कालीधरः कामचारि कुलकीर्तिविवर्धनः ।
कामाद्रिः कामुकवरः कार्मुकी काममोहितः ॥ २३
कटाक्षः कनकाभासः कनकोज्ज्वलगात्रकः ।
कामातुरः क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ २४॥
कार्तिकेयपिता कोकनदभूषणभूषितः ।
खट्वाङ्गयोद्धा खड्गी च गिरीशो गगनेश्वरः ॥ २५
गणाध्यक्षः खेटकधृक् खर्वः खर्वतरः खगः ।
खगारूढः खगाराध्यः खेचरः खेचरेश्वरः ॥ २६॥
खेचरत्वप्रदः क्षोणीपतिः खेचरमर्दकः ।
गणेश्वरो गणपिता गरिष्ठो गणभूपतिः ॥ २७॥
गुरुर्गुरुतरो ज्ञेयो गङ्गापतिरमर्षणः ।
गीतप्रियो गीतरतः सुगोप्यो गोपवृन्दपः ॥ २८॥
गवारूढो जगद्भर्ता गोस्वामी गोस्वरूपकः ।
गोप्रदो गोधरो गृध्रो गरुत्मान् गोकृतासनः ॥ २९।
गोपीशो गुरुतातश्च गुहावासी सुगोपितः ।
गजारूढो गजास्यश्च गजाजिनधरोऽग्रजः ॥ ३०॥
ग्रहाध्यक्षो ग्रहगणो दुष्टग्रहविमर्दकः ।
मानरूपी गानरतः प्रचण्डो गानविह्वलः ॥ ३१॥
गानमत्तो गुणी गुह्यो गुणग्रमाशयो गुणः ।
गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः ॥ ३२॥
गोप्ता गोलोकवासी च गुणवान्गुणिनां वरः ।
हरो हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ ३३॥
हव्यभुघरिसम्पूज्यो हविर्हविर्भुजां वरः ।
अनादिरादिः सर्वाद्य आदितेयवरप्रदः ॥ ३४॥
अनन्तविक्रमो लोको लोकानां पापहारकः ।
गीष्पतिः सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ ३५॥
गुणप्रीतो गुणवरो गिरिजानायको गिरिः ।
गौरीभर्ता गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ ३६॥
पद्मासनः पद्मनेत्रः पद्मतुष्टः सुपद्मकः ।
पद्मवक्त्रः पद्मकरः पद्मारूढपदाम्बुजः ॥ ३७॥
पद्मप्रियतमः पद्मालयः पद्मप्रकाशकः ।
पद्मकाननसंवासः पद्मकाननभञ्जकः ॥ ३८॥
पद्मकाननसंवासी पद्मारण्यकृतालयः ।
प्रफुल्लवदनः फुल्लकमलाक्षः प्रफुल्लकृत् ॥ ३९॥
फुल्लेन्दीवरसन्तुष्टः प्रफुल्लकमलासनः ।
फुल्लाम्भोजकरः फुल्लमानसः पापहारकः ॥ ४०॥
पापापहारी पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् ।
पुण्यः पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ ४१॥
पुण्येशः पुण्यदः पुण्यनिरतः पुण्यभाजनः ।
परोपकारी पापिष्ठनाशकः पापहारकः ॥ ४२॥
पुरातनः पूर्वहीनः परद्रोहविवर्जितः ।
पीवरः पीवरमुखः पीनकायः पुरान्तकः ॥ ४३॥
पाशी पशुपतिः पाशहस्तः पाषाणवित्पतिः ।
पलात्मकः परो वेत्ता पाशबद्धविमोचकः ॥ ४४॥
पशूनामधिपः पाशच्छेत्ता पाशविभेदकः ।
पाषाणधारी पाषाणशयानः पाशिपूजितः ॥ ४५॥
पश्वारूढः पुष्पधनुः पुष्पवृन्दसुपूजितः ।
पुण्डरीकः पीतवासा पुण्डरीकाक्षवल्लभः ॥ ४६॥
पानपात्रकरः पानमत्तः पानातिभूतकः ।
पोष्टा पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ ४७॥
पुण्डरीकाक्षकर्ता च पुण्डरीकाक्षसेवितः ।
पल्लवस्थः प्रपीठस्थः पीठभूमिनिवासकः ॥ ४८॥
पिता पितामहः पार्थप्रसन्नोऽभीष्टदायकः ।
पितॄणां प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ ४९॥
प्रीत्यात्मकः प्रीतिवशी सुप्रीतः प्रीतिकारकः ।
प्रीतिहृत्प्रीतिरूपात्मन् प्रीतियुक्तस्त्वमेव हि ॥ ५०॥
प्रणतार्तिहरः प्राणवल्लभः प्राणदायकः ।
प्राणी प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ ५१॥
प्राणनाथः प्रीतमनाः सर्वेषां प्रपितामहः ।
वृद्धः प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ ५२॥
पराधीशः परं ज्योतिः परनेत्रः परात्मकः ।
पारुष्यरहितः पुत्री पुत्रदः पुत्ररक्षकः ॥ ५३॥
पुत्रप्रियः पुत्रवश्यः पुत्रवत्परिपालकः ।
परित्राता परावासः परचेताः परेश्वरः ॥ ५४॥
पतिः सर्वस्य सम्पाल्यः पवमानः परोऽन्तकः ।
पुरहा पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ ५५॥
पुरन्दरोऽतिसम्पूज्यः प्रधर्षो दुष्प्रधर्षणः ।
पटुः पटुतरः प्रौढः प्रपूज्यः पर्वतालयः ॥ ५६॥
पुलिनस्थः पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः ।
अभीरुरसिताङ्गश्च चण्डरूपः सिताङ्गकः ॥ ५७॥
सर्वविद्याविनोदश्च सर्वसौख्ययुतः सदा ।
सुखहर्ता सर्वसुखी सर्वलोकैकपावनः ॥ ५८॥
सदावनः सारदश्च सुसिद्धः शुद्धरूपकः ।
सारः सारतरः सूर्यः सोमः सर्वप्रकाशकः ॥ ५९॥
सोममण्डलधारी च समुद्र सिन्धुरूपवान् ।
सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ ६०॥
सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः ।
सर्वाचारयुतः सौरः शाक्तः परमवैष्णवः ॥ ६१॥
सर्वधर्मविधानज्ञः सर्वाचारपरायणः ।
सर्वरोगप्रशमनः सर्वरोगापहारकः ॥ ६२॥
प्रकृष्टात्मा महात्मा च सर्वधर्मप्रदर्शकः ।
सर्वसम्पद्युतः सर्वसम्पद्दानसमेक्षणः ॥ ६३॥
सहास्यवदनो हास्ययुक्तः प्रहसिताननः ।
साक्षी समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ ६४॥
सकलज्ञः समर्थज्ञः सुमनाः शैवपूजितः ।
शोकप्रशमनः शोकहन्ताऽशोच्यः शुभान्वितः ॥ ६५॥
शैलज्ञः शैलजानाथः शैलनाथः शनैश्चरः ।
शशाङ्कसदृशज्योतिः शशाङ्कार्धविराजितः ॥ ६६॥
साधुप्रियः साधुतमः साध्वीपतिरलौकिकः ।
शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ॥ ६७॥
शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् ।
शतसूर्यप्रभः सूर्यः सूर्यदीप्तः सुरारिहा ।
शुभान्वितः शुभतनुः शुभबुद्धिः शुभात्मकः ॥ ६८॥
शुभान्विततनुः शुक्लतनुः शुक्लप्रभान्वितः ।
सुशौक्लः शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ ६९॥
शुक्लपुष्पप्रियः शुक्लवसनः शुक्लकेतनः ।
शेषालङ्करणः शेषरहितः शेषवेष्टितः ॥ ७०॥
शेषारूढः शेषशायी शेषाङ्गदविराजितः ।
सतीप्रियः साशङ्कश्च समदर्शी समाधिमान् ॥ ७१॥
सत्सङ्गी सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः ।
सहिष्णुः शाश्वतैश्वर्यः सामगानरतः सदा ॥ ७२॥
सामवेत्ता साम्यतरः श्यामापतिरशेषभुक् ।
तारिणीपतिराताम्रनयनस्त्वरिताप्रियः ॥ ७३॥
तारात्मकस्त्वग्वसनस्तरुणीरमणो रतः ।
तृप्तिरूपस्तृप्तिकर्ता तारकारिनिषेवितः ॥ ७४॥
वायुकेशो भैरवेशो भवानीशो भवान्तकः ।
भवबन्धुर्भवहरो भवबन्धनमोचकः ॥ ७५॥
अभिभूतोऽभिभूतात्मा सर्वभूतप्रमोहकः ।
भुवनेशो भूतपूज्यो भोगमोक्षफलप्रदः ॥ ७६॥
दयालुर्दीननाथश्च दुःसहो दैत्यमर्दकः ।
दक्षकन्यापतिर्दुःखनाशको धनधान्यदः ॥ ७७॥
दयावान् दैवतश्रेष्ठो देवगन्धर्वसेवितः ।
नानायुधधरो नानापुष्पगुच्छविराजितः ॥ ७८॥
नानासुखप्रदो नानामूर्तिधारी च नर्तकः ।
नित्यविज्ञानसंयुक्तो नित्यरूपोऽनिलोऽनलः ॥ ७९॥
लब्धवर्णो लघुतरो लघुत्वपरिवर्जितः ।
लोलाक्षो लोकसम्पूज्यो लावण्य परिसंयुतः ॥ ८०॥
नपुरीन्याससंस्थश्च नागेशो नगपूजितः ।
नारायणो नारदश्च नानाभरणभूषितः ॥ ८१॥
नगभूतो नग्नदेशो नग्नः सानन्दमानसः ।
नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ८२॥
नन्दिकेशो नन्दिपूज्यो नानानीरजमध्यगः ।
नवीनबिल्वपत्रौघतुष्टो नवघनद्युतिः ॥ ८३॥
नन्दः सानन्द आनन्दमयश्चानन्दविह्वलः ।
नालसंस्थः शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ ८४॥
स्वल्पासनो भीमरुचिर्भुवनान्तकराम्बुदः ।
आसन्नः सिकतालीनो वृषासीनो वृषासनः ॥ ८५॥
वैरस्यरहितो वार्यो व्रती व्रतपरायणः ।
ब्राह्म्यो विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ ८६॥
घण्टाकारो घोटकस्थो घोररावो घनस्वनः ।
घूर्णचक्षुरघूर्णात्मा घोरहासो गभीरधीः ॥ ८७॥
चण्डीपतिश्चण्डमूर्तिश्चण्डो मुण्डी प्रचण्डवाक् ।
चितासंस्थश्चितावासश्चितिर्दण्डकरः सदा ॥ ८८॥
चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः ।
चिताप्रमोदी चित्साक्षी चिन्तामणिरचिन्तकः ॥ ८९॥
चतुर्वेदमयश्चक्षुश्चतुराननपूजितः ।
चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः ॥ ९०॥
चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः ।
चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः ॥ ९१॥
स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः ।
स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ ९२॥
स्थैर्यातिगः स्थितिपरः स्थाणुरूपी स्थलाधिपः ।
ऐहिको मदनार्तश्च महीमण्डलपूजितः ॥ ९३॥
महीप्रियो मत्तरवो मीनकेतुविमर्दकः ।
मीनरूपो मनिसंस्थो मृगहस्तो मृगासनः ॥ ९४॥
मार्गस्थो मेखलायुक्तो मैथिलीश्वरपूजितः ।
मिथ्याहीनो मङ्गलदो माङ्गल्यो मकरासनः ॥ ९५॥
मत्स्यप्रियो मथुरगीर्मधुपानपरायणः ।
मृदुवाक्यपरः सौरप्रियो मोदान्वितस्तथा ॥ ९६॥
मुण्डालिर्भूषणो दण्डी उद्दण्डो ज्वललोचनः ।
असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ ९७॥
श्रीपतिः श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः ।
श्रीमतां श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ ९८॥
श्रमादिक्लेशरहितः श्रीनिवासः श्रियान्वितः ।
श्रद्धालुः श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ ९९॥
प्रलयाग्न्यर्कसङ्काशः प्रमत्तनयनोज्ज्वलः ।
असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ १००॥
विश्वभूतमयो वैश्वानरनेत्रोऽधिमोहकृत् ।
लोकत्राणपरोऽपारगुणः पारविवर्जितः ॥ १०१॥
अग्निजिह्वो द्विजास्यश्च विश्वास्यः सर्वभूतधृक् ।
खेचरः खेचराधीशः सर्वगः सार्वलौकिकः ॥ १०२॥
सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः ।
कपालविलसद्धस्तः कमण्डलुभृदर्चितः ॥ १०३॥
केवलात्मस्वरूपश्च केवलज्ञानरूपकः ।
व्योमालयनिवासी च बृहद्व्योमस्वरूपकः ॥ १०४॥
अम्भोजनयनोऽम्भोधिशयानः पुरुषातिगः ।
निरालम्बोऽवलम्बश्च सम्भोगानन्दरूपकः ॥ १०५॥
योगनिद्रामयो लोकप्रमोहापहरात्मकः ।
बृहद्वक्त्रो बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ १०६॥
बृहत्सर्पाङ्गदो दुष्टबृहद्वालविमर्दकः ।
बृहद्भुजबलोन्मत्तो बृहत्तुण्डो बृहद्वपुः ॥ १०७॥
बृहदैश्वर्ययुक्तस्च बृहदैश्वर्यदः स्वयम्।
बृहत्सम्भोगसनुष्टो बृहदानन्ददायकः ॥ १०८॥
बृहज्जटाजूटधरो बृहन्माली बृहद्धनुः ।
इन्द्रियाधिष्ठितः सर्वलोकेन्द्रियविमोहकृत् ॥ १०९॥
सर्वेन्द्रियप्रवृत्तिकृत् सर्वेन्द्रियनिवृत्तिकृत्।
प्रवृत्तिनायकः सर्वविपत्तिपरिनाशकः ॥ ११०॥
प्रवृत्तिमार्गनेता त्वं स्वतन्त्रेच्छामयः स्वयम् ।
सत्प्रवृत्तिरतो नित्यं दयानन्दशिवाधरः ॥ १११॥
क्षितिरूपस्तोयरूपी विश्वतृप्तिकरस्तथा ।
तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः ॥ ११२॥
तृप्तिकारणभूतश्च सर्वतृप्तिप्रसाधकः ।
अभेदो भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ ११३॥
अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः ।
अदृष्टः समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ ११४॥
चित्रयोधी चित्रकर्मा विश्वसङ्कर्षकः स्वयम् ।
भक्तानामीप्सितकरः सर्वेप्सितफलप्रदः ॥ ११५॥
वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः ।
बोधनात्मा बोधनार्थातिगः सर्वप्रबोधकृत् ॥ ११६॥
त्रिजटश्चैकजटिलश्चलज्जूटो भयानकः ।
जटाटीनो जटाजूटस्पृष्टावरवचः स्वयम् ॥ ११७॥
षाण्मातुरस्य जनकः शक्तिः प्रहरतां वरः ।
अनर्घास्त्रप्रहारी चानर्घधन्वा महार्घ्यपात् ॥ ११८॥
योनिमण्डलमध्यस्थो मुखयोनिरजृम्भणः ।
महाद्रिसदृशः श्वेतः श्वेतपुष्पस्रगन्वितः ॥ ११९॥
मकरन्दप्रियो नित्यं मासर्तुहायनात्मकः ।
नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः ॥ १२०॥
षडङ्गयोगनिरतः सदायोगार्द्रमानसः ।
सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः ॥ १२१॥
सुप्रकाशितवक्त्राब्जः सितेतरगलोज्ज्वलः ।
वैनतेयसमारूढः शरदिन्दुसहस्रवत् ॥ १२२॥
जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो यमः स्वयम् ।
प्रज्वलद्विद्युदाभश्च साट्टहासभयङ्करः ॥ १२३॥
प्रलयानलरूपी च प्रलयाग्निरुचिः स्वयम् ।
जगतामेकपुरुषो जगतां प्रलयात्मकः ॥ १२४॥
प्रसीद त्वं जगन्नाथ जगद्योने नमोऽस्तु ते ॥ १२५॥
श्रीमहादेव उवाच-
एवं नामसहस्रेण राज्ञा वै संस्तुतो हरः ।
प्रत्यक्षमगमत्तस्य सुप्रसन्नमुखाम्बुजः ॥ १२६॥
स तं विलोक्य त्रिदशैकनाथं
पञ्चाननं श्वेतरुचिं प्रसन्नम् ।
वृषाधिरूढं भुजगाङ्गदैर्युतं
ननर्त राजा धरणीभुजां वरः ॥ १२७॥
प्रोवाच चेदं परमेश्वराद्य मे
एतानि सर्वाणि सुखार्थकानि ।
तपश्च होमश्च मनुष्यजन्म
यत्त्वां प्रपश्यामि दृशा परेशम् ॥ १२८॥
मत्तो न धन्योस्ति महीतले वा
स्वर्गे यतस्त्वं मम नेत्रगोचरः ।
सुरासुराणामपि दुर्लभेक्षणः
परात्परः पूर्णमयो निरामयः ॥ १२९॥
ततस्तमेवं प्रतिभाषमाणं
प्राह प्रपनार्तिहरो महेश्वरः ।
किं ते मनोवाञ्छितमेव विद्यते
वृणुष्व तत्पुत्र ददामि तुभ्यम् ॥ १३०॥
सचाह पूर्वं कपिलस्य शापतः
पातालरन्ध्रे मम पूर्ववंशजाः ।
भस्मीबभूवुः सगरस्य पुत्रा
महाबला देवसमानविक्रमाः ॥ १३१॥
तेषां तु निस्तारणकाम्यया ह्यहं
गङ्गां धरण्यामभिनेतुमीहे ।
सा तु त्वदीया परमा हि शक्तिः
विनाज्ञया ते न हि याति पृथ्वीम् ॥ १३२॥
तदेतदिच्छामि समेत्य गङ्गा
क्षितौ महावेगवती महानदी ।
प्रविश्य तस्मिन्विवरे महेश्वरी
पुनातु सर्वान्सगरस्य पुत्रान् ॥ १३३॥
इत्येवमाकर्ण्य वचः परेश्वरः
प्रोवाच वाक्यं क्षितिपालपुङ्गवम् ।
मनोरथस्तेऽयमवेहि पूर्णो
मम प्रसादादचिराद्भविष्यति ॥ १३४॥
ये चापि मां भक्तित एव मर्त्याः
स्तोत्रेण चानेन नृप स्तुवन्ति ।
तेषां तु पूर्णाः सकला मनोरथा
ध्रुवं भविष्यन्ति मम प्रसादात् ॥ १३५॥
श्रीमहादेव उवाच-
इत्येवं स वरं लब्ध्वा राजा हृष्टमनास्ततः ।
दण्डवत्प्रणिपत्याह धन्योऽहं त्वत्प्रसादतः ॥ १३६॥
ततश्चान्तर्दधे देवः क्षणादेव महामते ।
राजा निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ १३७॥
राज्ञा कृतमिदं स्तोत्रं सहस्रनामसंज्ञकम् ।
यः पठेत्परया भक्त्या स कैवल्यमवाप्नुयात् ॥ १३८॥
न चेह दुःखं कुत्रापि जायते तस्य नारद ।
जायते परमैश्वर्यं प्रसादाच्च महेशितुः ॥ १३९॥
महापदि भये घोरे यः पठेत्स्तोत्रमुत्तमम् ।
शम्भोर्नामसहस्राख्यं सर्वमङ्गलवर्धनम् ॥ १४०॥
महाभयहरं सर्वसुखसम्पत्तिदायकम् ।
स मुच्यते महादेवप्रसादेन महाभयात् ॥ १४१॥
दुर्भिक्ष्ये लोकपीडायां देशोपद्रव एव वा ।
सम्पूज्य परमेशानं धूपदीपादिभिर्मुने ॥ १४२॥
यः पठेत्परया भक्त्या स्तोत्रं नामसहस्रकम् ।
न तस्य देशे दुर्भिक्षं न च लोकादिपीडनम् ॥ १४३॥
न चान्योपद्रवो वापि भवेदेतत्सुनिश्चितम् ।
पर्जन्योऽपि यथाकाले वृष्टिं तत्र करोति हि ॥ १४४॥
यत्रेदं पठ्यते स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वसस्ययुता पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ १४५॥
न दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि ।
नाकाले मरणं तत्र प्राणिनां जायते मुने ॥ १४६॥
न हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः ।
धन्या देशाः प्रजा धन्या यत्र देशे महेश्वरम् ॥ १४७॥
सम्पूज्य पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् ।
चतुर्दश्यां तु कृष्णायां फाल्गुने मासि भक्तितः ॥ १४८॥
यः पठेत्परमेशस्य नाम्नां दशशताख्यकम् ।
स्तोत्रमत्यन्तसुखदं न पुनर्जन्मभाग्भवेत् ॥ १४९॥
वायुतुल्यबलो नूनं विहरेद्धरणीतले ।
धनेशतुल्यो धनवान्कन्दर्पसमरूपवान् ॥ १५०॥
विहरेद्देवतातुल्यो निग्रहानुग्रहे क्षमः ।
गङ्गायां वा कुरुक्षेत्रे प्रयागे वा महेश्वरम् ।
परिपूज्य पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ १५१॥
काश्यां यस्तु पठेदेतत्स्तोत्रं परममङ्गलम् ।
तस्य पुण्यं मुनिश्रेष्ठ किमहं कथयामि ते ॥ १५२॥
एतत्स्तोत्रप्रसादेन स जीवन्नेव मानवः ।
साक्षान्महेशतामेति मुक्तिरन्ते करस्थिता ॥ १५३॥
प्रत्यहं प्रपठेदेतद्बिल्वमूले नरोत्तमः ।
स सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ १५४॥
यो ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् ।
स मुच्यते महापापात्सत्यं सत्यं वदामि ते ॥ १५५॥
न तस्य ग्रहपीडा स्यान्नापमृत्युभयं तथा ।
न तं द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ १५६॥
पठेदेतद्धृदि ध्यात्वा देवदेवं सनातनम् ।
सर्वदेवमयं पूर्णं रजताद्रिसमप्रभम् ॥ १५७॥
प्रफुल्लपङ्कजास्यं च चारुरूपं वृषध्वजम्।
जटाजूटज्वलत्कालकूटशोभितविग्रहम् ॥ १५८॥
त्रिशूलं डमरु चैव दधानं दक्षवामयोः ।
द्वीपिचर्माम्बरधरं शान्तं त्रैलोक्यमोहनम् ॥ १५९॥
एवं हृदि नरो भक्त्या विभाव्यैतत्पठेद्यदि ।
इह भुक्त्वा परं भोगं परत्र च महामते ॥ १६०॥
शम्भोः स्वरूपतां याति किमन्यत्कथयामि ते ॥ १६१॥
तत्रैव सद्भक्तियुतः पठेदिदं
स्तोत्रं मम प्रीतिकरं परं मुने ।
मर्त्यो हि योऽन्यः खलु सोऽपि कृच्छ्रं
जगत्पवित्रायत एव पापतः ॥ १६२॥
॥ श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं
शिव सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
अन्य सम्बंधित पृष्ठ (Page )